मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १४, ऋक् १

संहिता

स॒मिधा॑ जा॒तवे॑दसे दे॒वाय॑ दे॒वहू॑तिभिः ।
ह॒विर्भि॑ः शु॒क्रशो॑चिषे नम॒स्विनो॑ व॒यं दा॑शेमा॒ग्नये॑ ॥

पदपाठः

स॒म्ऽइधा॑ । जा॒तऽवे॑दसे । दे॒वाय॑ । दे॒वहू॑तिऽभिः ।
ह॒विःऽभिः॑ । शु॒क्रऽशो॑चिषे । न॒म॒स्विनः॑ । व॒यम् । दा॒शे॒म॒ । अ॒ग्नये॑ ॥

सायणभाष्यम्

जातवेदसे जातवेदसं जातप्रज्ञं अग्नये अग्निं समिधा वयं वसिष्ठाः दाशेम परिचरेम । देवाय देवं स्तुत्यमग्निं देवहूतिभिर्देवस्तुतिर्भि दाशेम । शुक्रशोचिषे शुभ्रशोचिषं शुभ्रदीप्तिं नम स्विनोहविष्मन्तोवयं हविर्भिर्दाशेम । अत्र दाशतियोगात् कर्मणि चत्गुर्थी प्रायेण सर्वत्र दाश- तियोगे कर्मणिचतुर्थी दृश्यते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७