आ नो॑ दे॒वेभि॒रुप॑ दे॒वहू॑ति॒मग्ने॑ या॒हि वष॑ट्कृतिं जुषा॒णः ।
तुभ्यं॑ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥
आ । नः॒ । दे॒वेभिः॑ । उप॑ । दे॒वऽहू॑तिम् । अग्ने॑ । या॒हि । वष॑ट्ऽकृतिम् । जु॒षा॒णः ।
तुभ्य॑म् । दे॒वाय॑ । दाश॑तः । स्या॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
हे अग्ने नोस्माकं देवहूतिं स्तोत्रं यज्ञंवा देवेभिः देवैः सार्धं वषट् कृतिं हविः जुषाणः सेवमानस्त्वं उप आयाहि । देवाय द्योतमानाय तुभ्यं वयं दाशतः परिचरन्तः स्याम भवेम । सिद्धमन्यत् ॥ ३ ॥
उपसद्यायेति पञ्चदशर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं गायत्रमाग्नेयं तथाचानुक्रान्तं-उपसद्याय पंचोना गायत्रमिति प्रातरनुवाके आग्नेये- क्रतौ गायत्रेछन्दसि आश्विनशस्त्रे चेदं सूक्तं सूत्रितं च-उपसद्याय त्वमग्नेयज्ञानामिति तिस्रउत्तमाउद्धरेदिति । उपसदि पौर्वाह्णिक्यां उअपसद्यायेत्याद्यास्तिस्रऋचः सामिधेन्यः सूत्र्यते च-उपसद्यायमीह्ळुषइति तिस्रः एकैकां त्रिरनवानमिति । पवित्रेष्ट्यां अग्नेरक्षांसी- त्येषा प्रथमाज्यभागानुवाक्या सूत्रितं च-पावकवन्तावाज्यभागावग्नी रक्षांसिसेधतीति । अन्वारंभणीयायां अग्नेर्भगिनोयाज्या सूत्रितं च-आसवंसवितुर्यथा सनोराधांस्याभरेति । स्वस्त्ययन्यामिष्टौ अग्नेरक्षाणइतिप्रथमाज्यभागानुवाक्या सूत्रितं च-स्वस्त्ययन्यांरक्षित- वन्तावग्नेरक्षाणोअंहसइति ।