मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् २

संहिता

यः पञ्च॑ चर्ष॒णीर॒भि नि॑ष॒साद॒ दमे॑दमे ।
क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥

पदपाठः

यः । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । नि॒ऽस॒साद॑ । दमे॑ऽदमे ।
क॒विः । गृ॒हऽप॑तिः । युवा॑ ॥

सायणभाष्यम्

योग्निः कविः प्राज्ञो गृहपतिः गृहाणां पालयिता युवा नित्यतरुणःसन् पंचचर्षणीः पञ्चजनानु मनुष्यानभि अभिमुखं दमेदमे गृहेगृहे निषसाद निषीदति । उत्तरया वाक्यपरिसमाप्तिः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८