मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् ३

संहिता

स नो॒ वेदो॑ अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑ ।
उ॒तास्मान्पा॒त्वंह॑सः ॥

पदपाठः

सः । नः॒ । वेदः॑ । अ॒मात्य॑म् । अ॒ग्निः । र॒क्ष॒तु॒ । वि॒श्वतः॑ ।
उ॒त । अ॒स्मान् । पा॒तु॒ । अंह॑सः ॥

सायणभाष्यम्

सोग्निर्नोस्माकं वेदोधनं अमात्यं अन्तिके भवं सह भूतंवा विश्वतः सर्वतोबाधकात् रक्षतु । उतापिच अस्मान्वसिष्ठानंहसः पापात् पातु रक्षतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८