मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् ४

संहिता

नवं॒ नु स्तोम॑म॒ग्नये॑ दि॒वः श्ये॒नाय॑ जीजनम् ।
वस्व॑ः कु॒विद्व॒नाति॑ नः ॥

पदपाठः

नव॑म् । नु । स्तोम॑म् । अ॒ग्नये॑ । दि॒वः । श्ये॒नाय॑ । जी॒ज॒न॒म् ।
वस्वः॑ । कु॒वित् । व॒नाति॑ । नः॒ ॥

सायणभाष्यम्

दिवो द्युलोकस्य श्येनाय श्येनसदृशाय नु क्षिप्रं गन्त्रे अग्नये यस्मै नवं नूतनं स्तोमं जीजनं जनयामि । सोग्निर्नोस्मभ्यं कुवित् बहु वस्वो- वसु धनं कर्मणिषष्ठी वनानि ददात्वित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८