मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् ५

संहिता

स्पा॒र्हा यस्य॒ श्रियो॑ दृ॒शे र॒यिर्वी॒रव॑तो यथा ।
अग्रे॑ य॒ज्ञस्य॒ शोच॑तः ॥

पदपाठः

स्पा॒र्हाः । यस्य॑ । श्रियः॑ । दृ॒शे । र॒यिः । वी॒रऽव॑तः । य॒था॒ ।
अग्रे॑ । य॒ज्ञस्य॑ । शोच॑तः ॥

सायणभाष्यम्

यस्याग्ने पुरस्ताद्भागे शोचतो दीप्यमानस्य यस्याग्नेः श्रियो दीप्तयः वीरवतः पुत्रवतोरयिर्धनं यथा तद्वत् दृशे द्रष्टुं चक्षुषेवा स्पार्हाः स्प्कुहणीयाः भवन्ति । तस्मै नवं स्तोमं जीजनमित्यनुषंगः उत्तरत्र संबंधोवा ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८