मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् ७

संहिता

नि त्वा॑ नक्ष्य विश्पते द्यु॒मन्तं॑ देव धीमहि ।
सु॒वीर॑मग्न आहुत ॥

पदपाठः

नि । त्वा॒ । न॒क्ष्य॒ । वि॒श्प॒ते॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । धी॒म॒हि॒ ।
सु॒ऽवीर॑म् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ ॥

सायणभाष्यम्

नक्ष्य उअपगन्तव्य नक्षतिर्व्याप्तिकर्मा विश्पते विशांपते देव द्योतमान आहुत सर्वैर्यजमानैरभिहुत हे अग्ने द्युमन्तं दीप्तिमन्तं सुवीरं कल्याणस्तोतृकं त्वा त्वां वयं निधीमहि निहितवन्तः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९