मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् ८

संहिता

क्षप॑ उ॒स्रश्च॑ दीदिहि स्व॒ग्नय॒स्त्वया॑ व॒यम् ।
सु॒वीर॒स्त्वम॑स्म॒युः ॥

पदपाठः

क्षपः॑ । उ॒स्रः । च॒ । दी॒दि॒हि॒ । सु॒ऽअ॒ग्नयः॑ । त्वया॑ । व॒यम् ।
सु॒ऽवीरः॑ । त्वम् । अ॒स्म॒ऽयुः ॥

सायणभाष्यम्

हे अग्ने त्वं क्षपोरात्रीः उस्रः अहानि च सर्वदेतियावत् दीदिहि दीप्यस्व दीप्यमानेन त्वया वयं वसिष्ठाः स्वग्नयः शोभमानाग्नयो भवाम । अस्मयुःअस्मान् कामयमानः सुपआत्मनः-क्यजिति क्यचिकृते क्याच्छन्दसीति उ प्रत्ययः दकारलोपश्छान्दसः तथा च यास्कः-अस्म- युरस्मान्कामयमानइति । त्वं सुवीरः सुस्तोत्रिको भव ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९