मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् ९

संहिता

उप॑ त्वा सा॒तये॒ नरो॒ विप्रा॑सो यन्ति धी॒तिभि॑ः ।
उपाक्ष॑रा सह॒स्रिणी॑ ॥

पदपाठः

उप॑ । त्वा॒ । सा॒तये॑ । नरः॑ । विप्रा॑सः । य॒न्ति॒ । धी॒तिऽभिः॑ ।
उप॑ । अक्ष॑रा । स॒ह॒स्रिणी॑ ॥

सायणभाष्यम्

हे अग्ने त्वा त्वां नरो नेतारो यजमानाः विप्रासो विप्राः मेधाविनः धीतिभिः कर्मभिः सातये धनाय कामानां लाभायवा उपयन्ति उप- गच्छन्ति । सहस्रिणी सहस्रसंख्याका अक्षरा क्षयरहिता स्तुतिरूपा अस्मदीया वाक् त्वामुपयाति च ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९