मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् १२

संहिता

त्वम॑ग्ने वी॒रव॒द्यशो॑ दे॒वश्च॑ सवि॒ता भगः॑ ।
दिति॑श्च दाति॒ वार्य॑म् ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । वी॒रऽव॑त् । यशः॑ । दे॒वः । च॒ । स॒वि॒ता । भगः॑ ।
दितिः॑ । च॒ । दा॒ति॒ । वार्य॑म् ॥

सायणभाष्यम्

हे अग्ने त्वं वीरवत् पुत्रपौत्रोपेतं यशोन्नं देहीति शेषः । देवश्च सविता सविता देवोपि वार्यं वरणीयं धनं दाति ददातु । भगश्च देवोपि ददातु । दितिश्च दितिरपि देवी ददातु । सवित्रादिः सूक्ते निपातभागिनी देवता ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०