मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् १५

संहिता

त्वं नः॑ पा॒ह्यंह॑सो॒ दोषा॑वस्तरघाय॒तः ।
दिवा॒ नक्त॑मदाभ्य ॥

पदपाठः

त्वम् । नः॒ । पा॒हि॒ । अंह॑सः । दोषा॑ऽवस्तः । अ॒घ॒ऽय॒तः ।
दिवा॑ । नक्त॑म् । अ॒दा॒भ्य॒ ॥

सायणभाष्यम्

हे अदाभ्य अहिंस्य दोषा वस्तः रात्रेराच्छादयितः तमसोवारयितरित्यर्थः । अग्ने त्वं नोस्मान् अंहसः पापात् अघायतः पापमिच्छतः शत्रोश्च दिवानक्तं अहनि रात्रौ च सर्वदा पाहि रक्ष ॥ १५ ॥

एनावइति द्वादशर्चं षोडशं सूक्तं वसिष्ठस्यार्षमग्निदेवताकं अयुजो बृहत्यः युजः सतोबृहत्यः तथाचानुक्रान्तम्-एनावोद्वादश प्रागाथ- मिति । प्रातरनुवाके आग्नेये क्रतौ बार्हते छन्दसि आश्विनशस्त्रेचेदं सूक्तं सूत्रितं च-एनावोअग्निं प्रवोयह्वमिति । आग्निमारुतशस्त्रेदेवोवो- द्रविणोदाइति प्रगाथोनुरूपः सूत्रितं च-देवोवोद्रविणोदाइति प्रगाथौ स्तोत्रियानुरूपाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०