मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् १

संहिता

ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे ।
प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ॥

पदपाठः

ए॒ना । वः॒ । अ॒ग्निम् । नम॑सा । ऊ॒र्जः । नपा॑तम् । आ । हु॒वे॒ ।
प्रि॒यम् । चेति॑ष्ठम् । अ॒र॒तिम् । सु॒ऽअ॒ध्व॒रम् । विश्व॑स्य । दू॒तम् । अ॒मृत॑म् ॥

सायणभाष्यम्

ऊर्जो बलस्य नपातं पुत्रं सनुः नपादित्यपत्यनामसु पाठात् प्रियं प्रियस्माकं चेतिष्ठं अतिशयेन ज्ञातारं प्रज्ञापकंवा अरतिं गन्तारं स्वामिनं वा स्वध्वरं सुयज्ञं विश्वस्य सर्वस्य यजमानस्य दूतममृतं नित्यमग्निमेना एनेन नमसा स्तोत्रेण यद्यप्यत्रान्वादेशोनास्ति तथापि छान्द- सत्वादिदंशब्दस्यैनादेशः । यद्वा एना एनमित्यग्नेर्विशेषणं समानार्षत्वात् पूर्वेषु सूक्तेष्वादिष्टत्वाद्वसिष्ठेनान्वादिश्यते । वोयुष्मदर्थमाहुवे आह्वयामि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१