मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् २

संहिता

स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः ।
सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वं राधो॒ जना॑नाम् ॥

पदपाठः

सः । यो॒ज॒ते॒ । अ॒रु॒षा । वि॒श्वऽभो॑जसा । सः । दु॒द्र॒व॒त् । सुऽआ॑हुतः ।
सु॒ऽब्रह्मा॑ । य॒ज्ञः । सु॒ऽशमी॑ । वसू॑नाम् । दे॒वम् । राधः॑ । जना॑नाम् ॥

सायणभाष्यम्

सोग्निररुषा आरोचमानौ विश्वभोजसा विश्वस्य पालयितारौ अश्वौ योजते रथे युनक्तु । यद्वा सोग्निः अरुषा आरोचमानेन तेजसा विश्व- भोजसा विश्वरक्षकेण योजते अयुज्यत । किं च सोग्निः दुद्रवत् आनेतुं देवान् प्रति भृशं द्रवतु द्रवतिवा । स्वाहुतः सुष्ठ्वाहुतः सुब्रह्मा सुस्तुतिः शोभनान्नोवा यष्टव्यः सुशमी सुकर्माच भवति । तमिमं देवं द्योतमानं वसूनां वासकानां जनानां वसिष्ठानां राधो हविरभि- गच्छत्वितिशेषः । यद्वा एवंगुणविशिष्टोग्निः वसूनां धनानां मध्ये देवमत्यन्तप्रकाशमानं राधो धनं जनानां यजमानानां धनवत्प्रियतम- इत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१