मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् ४

संहिता

तं त्वा॑ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ आ वी॒तये॑ वह ।
विश्वा॑ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत्त्वेम॑हे ॥

पदपाठः

तम् । त्वा॒ । दू॒तम् । कृ॒ण्म॒हे॒ । य॒शःऽत॑मम् । दे॒वान् । आ । वी॒तये॑ । व॒ह॒ ।
विश्वा॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । म॒र्त॒ऽभोज॑ना । रास्व॑ । तत् । यत् । त्वा॒ । ईम॑हे ॥

सायणभाष्यम्

हे सहसःसूनो बलस्यपुत्राग्ने यशस्तममतिशयेन यशस्विनं तं प्रतिद्धं यं त्वा त्वां दूतं कृण्महे कुर्मः । सः त्वं देवान् वीतये हविषां भक्षणाय आवह । किं च यद्यदा त्वा त्वां ईमहे याचामहे । तदैव विश्वा विश्वानि मर्तभोजनानि मनुष्याणां भोग्यानि कल्याणानि धनानि रास्वा- स्मभ्यं देहि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१