मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् ५

संहिता

त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता॑ नो अध्व॒रे ।
त्वं पोता॑ विश्ववार॒ प्रचे॑ता॒ यक्षि॒ वेषि॑ च॒ वार्य॑म् ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । गृ॒हऽप॑तिः । त्वम् । होता॑ । नः॒ । अ॒ध्व॒रे ।
त्वम् । पोता॑ । वि॒श्व॒ऽवा॒र॒ । प्रऽचे॑ताः । यक्षि॑ । वेषि॑ । च॒ । वार्य॑म् ॥

सायणभाष्यम्

हे विश्ववार विश्वैर्वरणीयाग्ने त्वं नोस्माकमध्वरे यागे गृहपतिरसि यजमानोसि । त्वं होता देवानामाह्वाता त्वं त्वमेव पोतासि । अतः प्रचेताः प्रकृष्टमतिस्त्वं वार्यं वरणीयं हविः यक्षि यज वेषि च कामयस्व भक्षयवा ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१