कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा असि॑ ।
आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं॑ सु॒शंसो॒ यश्च॒ दक्ष॑ते ॥
कृ॒धि । रत्न॑म् । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । त्वम् । हि । र॒त्न॒ऽधाः । असि॑ ।
आ । नः॒ । ऋ॒ते । शि॒शी॒हि॒ । विश्व॑म् । ऋ॒त्विज॑म् । सु॒ऽशंसः॑ । यः । च॒ । दक्ष॑ते ॥
हे सुक्रतो शोभनकर्मन्नग्ने यजमानाय मह्यं रत्नं धनं श्वात्रं रत्नमिति धननामसु पाठात् कृधि कुरु देहीत्यर्थः । हि यस्मात्त्वं रत्नधाः रत्नस्य दातासि । नोस्माकमृते यज्ञे विश्वं सर्वं ऋत्विजं आशिशीहि तीक्ष्णीकुरु । किं च यः सुशंसः सुस्तुतिरस्मत्पुत्रो दक्षते वर्धते तं वर्धय यः सुशंसो होता वर्धते तं वर्धयेत्यर्थः । होतुः पृथगुपादानमादरार्थं ॥ ६ ॥