मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् ७

संहिता

त्वे अ॑ग्ने स्वाहुत प्रि॒यासः॑ सन्तु सू॒रयः॑ ।
य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान्दय॑न्त॒ गोना॑म् ॥

पदपाठः

त्वे इति॑ । अ॒ग्ने॒ । सु॒ऽआ॒हु॒त॒ । प्रि॒यासः॑ । स॒न्तु॒ । सू॒रयः॑ ।
य॒न्तारः॑ । ये । म॒घऽवा॑नः । जना॑नाम् । ऊ॒र्वान् । दय॑न्त । गोना॑म् ॥

सायणभाष्यम्

हे अग्ने स्वाहुत यजमानैः सुष्ठु आहुत त्वे तव सूरयः प्रेरकाः स्तोतारोवा प्रियासः प्रियाः सन्तु भवन्तु । किं च ये मघवानो धनवन्तो यन्तारः प्रदातारः जनानामस्मदीयानामूर्वान् समूहान् गोनां गवां च ऊर्वान् दयन्त प्रयच्छन्ति ते च तव प्रियासः सन्त्विति पूर्वेण संबंधः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२