मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् ८

संहिता

येषा॒मिळा॑ घृ॒तह॑स्ता दुरो॒ण आँ अपि॑ प्रा॒ता नि॒षीद॑ति ।
ताँस्त्रा॑यस्व सहस्य द्रु॒हो नि॒दो यच्छा॑ न॒ः शर्म॑ दीर्घ॒श्रुत् ॥

पदपाठः

येषा॑म् । इळा॑ । घृ॒तऽह॑स्ता । दु॒रो॒णे । आ । अपि॑ । प्रा॒ता । नि॒ऽसीद॑ति ।
तान् । त्रा॒य॒स्व॒ । स॒ह॒स्य॒ । द्रु॒हः । नि॒दः । यच्छ॑ । नः॒ । शर्म॑ । दी॒र्घ॒ऽश्रुत् ॥

सायणभाष्यम्

येषां दुरोणे गृहे घृतहस्ता घृतयुक्तो हस्तो यस्याअसौ घृतहस्ता घृतेनाभिघारितेत्यर्थः । इळान्नरूपा हविर्लक्षणा देवी इरा इळेत्यन्ननाम- सु पाठात् । प्राता पूर्णा आनिषीदति आसीदति । अपीतिपूरणः तान् हविष्मतो यजमानान् हे सहस्य सहसे बलाय हिताग्ने द्रुहो द्रोग्धुर्नि- दोनिन्दकाच्च शत्रोस्त्रायस्व । नोस्मभ्यं दीर्घश्रुत् दीर्घकालं श्रोतव्यं शर्म सुखं गृहं वा यच्छ च देहि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२