मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् ९

संहिता

स म॒न्द्रया॑ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।
अग्ने॑ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा॑तिं च सूदय ॥

पदपाठः

सः । म॒न्द्रया॑ । च॒ । जि॒ह्वया॑ । वह्निः॑ । आ॒सा । वि॒दुःऽत॑रः ।
अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । नः॒ । आ । व॒ह॒ । ह॒व्यऽदा॑तिम् । च॒ । सू॒द॒य॒ ॥

सायणभाष्यम्

हे अग्ने मन्द्रया च मोदयित्र्या देवानामासा आस्यस्थानीयया जिह्वया ज्वालया बह्निर्हविषां वोढा बिदुष्टरो विद्वत्तरः सप्रसिद्धस्त्वं मघवड्भ्यो हविष्मड्भ्यो नोस्मभ्यं रयिं धनं आवहच । हव्यदातिं हव्यानि ददातीतिहव्यदातिर्यजमानः तं तथाच वाजसनेयिनः आमि- नन्ति-यजमानोवै हव्यदातिरिति । सूदयच कर्मसु प्रेरयच ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२