मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् १०

संहिता

ये राधां॑सि॒ दद॒त्यश्व्या॑ म॒घा कामे॑न॒ श्रव॑सो म॒हः ।
ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ॥

पदपाठः

ये । राधां॑सि । दद॑ति । अश्व्या॑ । म॒घा । कामे॑न । श्रव॑सः । म॒हः ।
तान् । अंह॑सः । पि॒पृ॒हि॒ । प॒र्तृऽभिः॑ । त्वम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ्य॒ ॥

सायणभाष्यम्

हे यविष्ठ्य युवतमाग्ने त्वं ये यजमानाः महो महतः श्रवसो यशसः कामेन इच्छया यशस्कामाः सन्तइत्यर्थः । राधांसि साधकानि अश्व्या अश्वात्मकानि मघा मघानि ददति तान् दातॄन् अंहसः पापात् शत्रोर्वा पर्तृभिः रक्षासाधनभूतैः शतमपरिमिताभिः पूर्भिर्नगरीभिश्च पिपृहि पालय ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२