मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् ११

संहिता

दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिच॑म् ।
उद्वा॑ सि॒ञ्चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥

पदपाठः

दे॒वः । वः॒ । द्र॒वि॒णः॒ऽदाः । पू॒र्णाम् । वि॒व॒ष्टि॒ । आ॒ऽसिच॑म् ।
उत् । वा॒ । सि॒ञ्चध्व॑म् । उप॑ । वा॒ । पृ॒ण॒ध्व॒म् । आत् । इत् । वः॒ । दे॒वः । ओ॒ह॒ते॒ ॥

सायणभाष्यम्

द्रविणोदाः धनानां दाता देवोग्निः वो युष्मदीयां पूर्णां हविषा आसिचं आसिक्तं स्रुचं विवष्टि कामयते अतउत्सिंचध्वं वा सोमेन पात्र- मुपपृणध्वं वा सोमं वाशब्दौ समुच्चयार्थौ ध्रुवग्रहेण होतृचमसं पूरयत च अग्नये सोमं यच्छतचेत्यर्थः आदिदनंतरमेव देवोग्निर्वोयुष्मान् ओहते वहति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२