मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् १२

संहिता

तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत ।
दधा॑ति॒ रत्नं॑ विध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥

पदपाठः

तम् । होता॑रम् । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसम् । वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ।
दधा॑ति । रत्न॑म् । वि॒ध॒ते । सु॒ऽवीर्य॑म् । अ॒ग्निः । जना॑य । दा॒शुषे॑ ॥

सायणभाष्यम्

देवाः प्रचेतसं प्रकृष्टमतिं अग्निमध्वरस्य यज्ञस्य वह्निं वोढारं होतारं चाकृण्वत अकुर्वन् । किमर्थमित्यत आह सचाग्निः विधते परिचरते दाशुषे हविषां प्रदात्रे जनाय सुवीर्यं शोभनवीर्योपेतं रत्नं रमणीयं धनं दधाति ददात्वित्यर्थः ॥ १२ ॥

अग्ने भव सुषमिधेति सप्तर्चं सप्तदशं सूक्तं वसिष्ठस्यार्षं अग्निदेवताकं सप्तापि द्विपदास्त्रिष्टुभः तथैवानुक्रम्यते-अग्नेभव सप्तद्वैपदं त्रैष्टुभमिति । अतिरात्रे षष्ठेहनि तृतीयसवने मैत्रावरुणशस्त्रे अग्नेभवेति तृचोनुरूपः सूत्र्यतेहि-अग्नेत्वन्नोअन्तमोग्नेभवसुषमिधासमिद्धइ- तिस्तोत्रियानुरूपाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२