मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १७, ऋक् २

संहिता

उ॒त द्वार॑ उश॒तीर्वि श्र॑यन्तामु॒त दे॒वाँ उ॑श॒त आ व॑हे॒ह ॥

पदपाठः

उ॒त । द्वारः॑ । उ॒श॒तीः । वि । श्र॒य॒न्ता॒म् । उ॒त । दे॒वान् । उ॒श॒तः । आ । व॒ह॒ । इ॒ह ॥

सायणभाष्यम्

उतापि च उशतीर्देवान् कामयमानाः द्वारो यज्ञगृहस्य देव्योवा तथा च यास्कः-द्वारोजवतेर्वा द्रवतेर्वा वारयतेर्वेति । विश्रयन्तां उतापिच उशतोयज्ञं कामयमानान् देवानिहयज्ञे आवह ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३