मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १७, ऋक् ४

संहिता

स्व॒ध्व॒रा क॑रति जा॒तवे॑दा॒ यक्ष॑द्दे॒वाँ अ॒मृता॑न्पि॒प्रय॑च्च ॥

पदपाठः

सु॒ऽअ॒ध्व॒रा । क॒र॒ति॒ । जा॒तऽवे॑दाः । यक्ष॑त् । दे॒वान् । अ॒मृता॑न् । पि॒प्रय॑त् । च॒ ॥

सायणभाष्यम्

जातवेदाः जातधनोग्निः अमृतान् मरणरहितान् देवान् स्वध्वरा स्वध्वरान् शोभनयज्ञान् करति करोतु यक्षत् हविषा यजतु च पिप्रयत् स्तोत्रैः प्रीणयतुच ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३