मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १७, ऋक् ७

संहिता

ते ते॑ दे॒वाय॒ दाश॑तः स्याम म॒हो नो॒ रत्ना॒ वि द॑ध इया॒नः ॥

पदपाठः

ते । ते॒ । दे॒वाय॑ । दाश॑तः । स्या॒म॒ । म॒हः । नः॒ । रत्ना॑ । वि । द॒धः॒ । इ॒या॒नः ॥

सायणभाष्यम्

हे अग्ने देवाय द्योतमानाय ते तुभ्यं ते प्रसिद्धा वसिष्ठावयं दाशतः हवींषि ददतः स्याम भवेम । अतोमहोमहांस्त्वं इयानः उपगम्यमानो याच्यमानोवा नोस्मभ्यं रत्ना रत्नानि रमणीयानि धनानि विदधः विधत्स्व ॥ ७ ॥

द्वितीयेनुवाके षोडश सूक्तानि तत्र त्वेहयत्पितरइति पंचविंशर्चं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमिन्द्रदेवताकं द्वाविंशादिभिश्चतसृभिः सुदासनाम्नोराज्ञो दानंस्तूयते अतस्तास्तद्देवताकाः अनुक्रम्यतेहि-त्वेहपंचाधिकैंद्रं सुदासः पैजवनस्य चतस्रोन्त्या दानस्तुतिरिति । महाव्रते आदितः पंचदशर्चः शंसनीयाः तथैव पंचमारण्यके सूत्रितं-त्वेहयत्पितरश्चिन्नइन्द्रेतिपंचदशेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३