मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् १

संहिता

त्वे ह॒ यत्पि॒तर॑श्चिन्न इन्द्र॒ विश्वा॑ वा॒मा ज॑रि॒तारो॒ अस॑न्वन् ।
त्वे गावः॑ सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ॥

पदपाठः

त्वे इति॑ । ह॒ । यत् । पि॒तरः॑ । चि॒त् । नः॒ । इ॒न्द्र॒ । विश्वा॑ । वा॒मा । ज॒रि॒तारः॑ । अस॑न्वन् ।
त्वे इति॑ । गावः॑ । सु॒ऽदुघाः॑ । त्वे इति॑ । हि । अश्वाः॑ । त्वम् । वसु॑ । दे॒व॒ऽय॒ते । वनि॑ष्ठः ॥

सायणभाष्यम्

हे इन्द्रत्वेह त्वय्येव नोस्माकं पितरश्चित् पितरोपि जरितारः स्तोतारः सन्तः यद्यस्मात् कारणात् विश्वा विश्वानि वामा वामानि वननीयानि धनानि तथा च यास्कः-वामं वननीयंभवतीति । असन्वत् अलभन्त तस्माद्वयमपि धनकामास्त्वां स्तुमः तद्युक्तम् । हि यस्मात् कारणात् त्वे त्वयि गावः सुदुघाः दोग्धुं सुशकाः सन्ति त्वे त्वयि अश्वाः सन्ति त्वं बसु धनं देवयते देवं त्वामिच्छते यजमानाय वनिष्ठो दातृतमोभवसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४