मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् ३

संहिता

इ॒मा उ॑ त्वा पस्पृधा॒नासो॒ अत्र॑ म॒न्द्रा गिरो॑ देव॒यन्ती॒रुप॑ स्थुः ।
अ॒र्वाची॑ ते प॒थ्या॑ रा॒य ए॑तु॒ स्याम॑ ते सुम॒तावि॑न्द्र॒ शर्म॑न् ॥

पदपाठः

इ॒माः । ऊं॒ इति॑ । त्वा॒ । प॒स्पृ॒धा॒नासः॑ । अत्र॑ । म॒न्द्राः । गिरः॑ । दे॒व॒ऽयन्तीः॑ । उप॑ । स्थुः॒ ।
अ॒र्वाची॑ । ते॒ । प॒थ्या॑ । रा॒यः । ए॒तु॒ । स्याम॑ । ते॒ । सु॒ऽम॒तौ । इ॒न्द्र॒ । शर्म॑न् ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां अत्र यज्ञे स्तोतरिवा प्रवर्तमानाः पस्पृधानासः स्पर्धमाना मन्द्राः मोदमानाः इमागिरः स्तुतयः उपस्थुः उपतिष्ठन्ति । अतस्ते तव रायोधनस्य पथ्या सृतिः अर्वाची अस्मदभिमुखी एतु गच्छतु । हे इन्द्र वयं च ते सुमतौ सुष्टुतौ वर्तमानाः शर्मन् शर्मणि सुखे स्याम भूयास्म ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४