मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् ४

संहिता

धे॒नुं न त्वा॑ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा॑णि ससृजे॒ वसि॑ष्ठः ।
त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इन्द्र॑ः सुम॒तिं ग॒न्त्वच्छ॑ ॥

पदपाठः

धे॒नुम् । न । त्वा॒ । सु॒ऽयव॑से । दुधु॑क्षन् । उप॑ । ब्रह्मा॑णि । स॒सृ॒जे॒ । वसि॑ष्ठः ।
त्वाम् । इत् । मे॒ । गोऽप॑तिम् । विश्वः॑ । आ॒ह॒ । आ । नः॒ । इन्द्रः॑ । सु॒ऽम॒तिम् । ग॒न्तु॒ । अच्छ॑ ॥

सायणभाष्यम्

हे इन्द्र सुयवसे सुतृणे गोष्ठे वर्तमानां धेनुं न धेनुमिव सुहविष्के यज्ञगृहे दृष्टान्तसामर्थ्याद्दार्ष्टान्तिकलाभः वर्तमानं त्वां दुदुक्षन् संहितायां व्यत्ययेन दकारः कामान् दोग्धुमिच्छन् वसिष्ठः ब्रह्माणि वत्सस्थानीयानि स्तोत्राणि उपससृजे उपसृजते मे मम विश्वः सर्वोजनः त्वामित् त्वामेव गोपतिं गवां स्वामिनमाह ब्रवीति । अथ परोक्षस्तुतिः नोस्माकं सुमतिं सुष्टुतिं अच्छाभि इन्द्रआगन्तु आगच्छतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४