मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् ६

संहिता

पु॒रो॒ळा इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या॑सो॒ निशि॑ता॒ अपी॑व ।
श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा॑यमतर॒द्विषू॑चोः ॥

पदपाठः

पु॒रो॒ळाः । इत् । तु॒र्वशः॑ । यक्षुः॑ । आ॒सी॒त् । रा॒ये । मत्स्या॑सः । निऽशि॑ताः । अपि॑ऽइव ।
श्रु॒ष्टिम् । च॒क्रुः॒ । भृग॑वः । द्रु॒ह्यवः॑ । च॒ । सखा॑ । सखा॑यम् । अ॒त॒र॒त् । विषू॑चोः ॥

सायणभाष्यम्

यक्षुः यज्ञकुशलः यजेः सन्प्रत्ययोनतुसन्नन्तः अतोन द्विर्भावः पुरोळाः पुरोगामी पुरोदातावा इदिति पूरणः तुर्वशोनाम राजा आसीत् सतुर्वशः राये धनप्राप्तये इन्द्रस्य सखायं सुदासं जगाम मत्स्यासइव जले निहितामत्स्याइव निशिता नियन्त्रिता अपि भृगवोद्रुह्यवश्च योधाश्च सुदासस्तुर्वशस्यच श्रुष्टिं आशु प्राप्तिं चक्रुः विषूचोर्विष्वगंचतोरुभयोर्मध्ये सखा सुदासश्चेद्रः सखायं सुदासमतरत् अतारयत् तुर्वशं चावधीदित्यर्थः यद्वा यक्षुः यज्ञशीलः पुरोळाः पुरोदाता तुर्वशोनामराजासीत् तेन मत्स्यासो मत्स्यजनपदा निशिता बाधिता आसन् अपिच भृगवोद्रुह्यवश्च श्रुष्टिं सुखं तुर्वशस्य चक्रुः विषूचोर्विष्वगंचतोरुभयोर्मध्ये सखा तुर्वशस्यसखेन्द्रः सखायं राजानं अतरद- तारयत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५