मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् ७

संहिता

आ प॒क्थासो॑ भला॒नसो॑ भन॒न्तालि॑नासो विषा॒णिनः॑ शि॒वासः॑ ।
आ योऽन॑यत्सध॒मा आर्य॑स्य ग॒व्या तृत्सु॑भ्यो अजगन्यु॒धा नॄन् ॥

पदपाठः

आ । प॒क्थासः॑ । भ॒ला॒नसः॑ । भ॒न॒न्त॒ । आ । अलि॑नासः । वि॒षा॒णिनः॑ । शि॒वासः॑ ।
आ । यः । अन॑यत् । स॒ध॒ऽमाः । आर्य॑स्य । ग॒व्या । तृत्सु॑ऽभ्यः । अ॒ज॒ग॒न् । यु॒धा । नॄन् ॥

सायणभाष्यम्

पक्थासः पक्थाः हविषां पाचकाः भलानसः भद्रमुखाः भलेति भद्रमुखाः भलेति भद्रवाची अलिनासः अलिनास्तपोभिरप्रवृद्धा इत्यर्थः । विषाणिनः कंडूयनार्थं कृष्णविषाणहस्ताः दीक्षिता इत्यर्थः शिवासः शिवाः यागादिना सर्वलोकस्य शिवकराः यागेन हि शिवं भवति लोकस्य आभनन्त अभिष्टुवन्ति तमिन्द्रम् । भनतिः शब्दकर्मा मौति भनतीति शब्दकर्मसुपाठात् यइन्द्रः सधमाः सोमपानेन सह माद्यतीति सधमादः सधमादएव सधमाः आर्यस्य कर्मशीलस्य गव्या गोसंघान् तृत्सुभ्योहिंसकेभ्य आ अनयत् अजगन् अजगत् स्वयं च गोसंघान् लेभे युधा युद्धेन तान् नॄन् शत्रून् जघान चेतिशेषः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५