मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् ८

संहिता

दु॒रा॒ध्यो॒३॒॑ अदि॑तिं स्रे॒वय॑न्तोऽचे॒तसो॒ वि ज॑गृभ्रे॒ परु॑ष्णीम् ।
म॒ह्नावि॑व्यक्पृथि॒वीं पत्य॑मानः प॒शुष्क॒विर॑शय॒च्चाय॑मानः ॥

पदपाठः

दुः॒ऽआ॒ध्यः॑ । अदि॑तिम् । स्रे॒वय॑न्तः । अ॒चे॒तसः॑ । वि । ज॒गृ॒भ्रे॒ । परु॑ष्णीम् ।
म॒ह्ना । अ॒वि॒व्य॒क् । पृ॒थि॒वीम् । पत्य॑मानः । प॒शुः । क॒विः । अ॒श॒य॒त् । चाय॑मानः ॥

सायणभाष्यम्

दुराध्यो दुष्टाभिसंधयोऽचेतसो मन्दमतयः सुदासः शत्रवः अदितिमदीनां परुष्णीं नदीं स्रेवयन्तः वि जगृभ्रे । विग्रहः कूलभेदः तमकुर्वन् परुष्ण्याः कूलं बिभिदुरित्यर्थः ससुदासः मह्ना इन्द्रप्रसादलब्धेन महिम्ना पृथिवीमविव्यक् तदैव व्याप्नोत् न पुनरुदकेनाबाध्यत ततः सुदासः शत्रुः चायमानः चयमानस्य पुत्रः कविः कविनामा पत्यमानः पाल्यमानः पशुः यागे संज्ञप्तः पशुरिव आशयत् आशेत सुदासानि- हतइत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५