मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् ११

संहिता

एकं॑ च॒ यो विं॑श॒तिं च॑ श्रव॒स्या वै॑क॒र्णयो॒र्जना॒न्राजा॒ न्यस्त॑ः ।
द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूर॒ः सर्ग॑मकृणो॒दिन्द्र॑ एषाम् ॥

पदपाठः

एक॑म् । च॒ । यः । विं॒श॒तिम् । च॒ । श्र॒व॒स्या । वै॒क॒र्णयोः॑ । जना॑न् । राजा॑ । नि । अस्त॒रित्यस्तः॑॑ ।
द॒स्मः । न । सद्म॑न् । नि । शि॒शा॒ति॒ । ब॒र्हिः । शूरः॑ । सर्ग॑म् । अ॒कृ॒णो॒त् । इन्द्रः॑ । ए॒षा॒म् ॥

सायणभाष्यम्

यः सुदासोराजा श्रवस्या यशसइच्छया अन्नेच्छया वा परुष्णयाः पार्श्वस्थयोः वैकर्णयोः जनपदयोर्विद्यमानान् एकं च विंशतिंचजनान् न्यस्तः आत्मना अहन् साराजा दस्मेन दर्शनीयो युवाऽध्वर्युरिव सद्मन् यज्ञगृहे बर्हिर्यस्मिन्युद्धे सपत्नान् निशुशाति नितरां लुनाति तस्मिन्युद्धे शूर इन्द्रः एषां मरुतां सगं प्रसवमकृणोत् सुदासः साहाय्यार्थमकरोत् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६