मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् १३

संहिता

वि स॒द्यो विश्वा॑ दृंहि॒तान्ये॑षा॒मिन्द्र॒ः पुर॒ः सह॑सा स॒प्त द॑र्दः ।
व्यान॑वस्य॒ तृत्स॑वे॒ गयं॑ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे॑ मृ॒ध्रवा॑चम् ॥

पदपाठः

वि । स॒द्यः । विश्वा॑ । दृं॒हि॒तानि॑ । ए॒षा॒म् । इन्द्रः॑ । पुरः॑ । सह॑सा । स॒प्त । द॒र्द॒रिति॑ दर्दः ।
वि । आन॑वस्य । तृत्स॑वे । गय॑म् । भा॒क् । जेष्म॑ । पू॒रुम् । वि॒दथे॑ । मृ॒ध्रऽवा॑चम् ॥

सायणभाष्यम्

एषां कवषादीनां विश्वा विश्वानि दृंहितानि दृढानि दुर्गाणि पुरोनगरीश्च तद्रक्षासाधनभूतान् सप्तप्रकारांश्च इन्द्रः सहसा बलेन सद्यएव विदर्दः विदारयामास । अपिच आनवस्य आनोः संबन्धिनोबलस्य आनोः पुत्रस्य वा गयं गृहं धनं वा तृत्सवे तृत्सुनामकाय राज्ञे तृत्सूनां गणाय वा विभाक् व्यभजत् अदादित्यर्थः इत्थमिन्द्रं स्तुवन्तोवयं विदथे युद्धे मृध्रवाचं बाधवाचं पूरुं मनुष्यं जेष्म जयेम ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६