मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् १४

संहिता

नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपु॒ः षट् स॒हस्रा॑ ।
ष॒ष्टिर्वी॒रासो॒ अधि॒ षड्दु॑वो॒यु विश्वेदिन्द्र॑स्य वी॒र्या॑ कृ॒तानि॑ ॥

पदपाठः

नि । ग॒व्यवः॑ । अन॑वः । द्रु॒ह्यवः॑ । च॒ । ष॒ष्टिः । श॒ता । सु॒सु॒पुः॒ । षट् । स॒हस्रा॑ ।
ष॒ष्टिः । वी॒रासः॑ । अधि॑ । षट् । दु॒वः॒ऽयु । विश्वा॑ । इत् । इन्द्र॑स्य । वी॒र्या॑ । कृ॒तानि॑ ॥

सायणभाष्यम्

गव्यवो गोकामाः अनवः अनोः संबन्धिनः द्रुह्यवो द्रुह्योः संबंधिनश्च वीरासोवीराः षष्टिः शता शतानि सहस्राणीत्यर्थः । षट् सहस्रा सहस्राणि च षष्टिश्च अधि षट् अधिकाः षट् च दुवोयु दुवोयुवे चतुर्थीलुक् परिचरणकामाय सुदासे नमस्यति दुवस्यतीति परिचरणकर्म- सु पाठात् नि सुषुपुः नितरां शेरते निहताइत्यर्थः तान्येतानि विश्वा विश्वानि कृतानि कार्याणि इन्द्रस्येत् इन्द्रस्यैव वीर्या वीर्याणीति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६