मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् १५

संहिता

इन्द्रे॑णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒ आपो॒ न सृ॒ष्टा अ॑धवन्त॒ नीची॑ः ।
दु॒र्मि॒त्रासः॑ प्रकल॒विन्मिमा॑ना ज॒हुर्विश्वा॑नि॒ भोज॑ना सु॒दासे॑ ॥

पदपाठः

इन्द्रे॑ण । ए॒ते । तृत्स॑वः । वेवि॑षाणाः । आपः॑ । न । सृ॒ष्टाः । अ॒ध॒व॒न्त॒ । नीचीः॑ ।
दुः॒ऽमि॒त्रासः॑ । प्र॒क॒ल॒ऽवित् । मिमा॑नाः । ज॒हुः । विश्वा॑नि । भोज॑ना । सु॒ऽदासे॑ ॥

सायणभाष्यम्

कदाचिदिन्द्रेण रक्षिताअपि अन्यदा तेनैव बाध्यन्ते एते तृत्सवः दुर्मित्रासो दुष्टमित्राः प्रकलवित् अजानन्तः इन्द्रेण वेविषाणाः युद्धार्थं संगताः सृष्टाः पलायनार्थं उद्युक्ताः नीचीर्नीचीना आपोन आपइव अधवन्त अधावन्त ततोमिमानाः सुदासा बाध्यमाना विश्वा विश्वानि भोजना भोग्यानि धनानि सुदासे राज्ञे जहः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६