मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् १७

संहिता

आ॒ध्रेण॑ चि॒त्तद्वेकं॑ चकार सिं॒ह्यं॑ चि॒त्पेत्वे॑ना जघान ।
अव॑ स्र॒क्तीर्वे॒श्या॑वृश्च॒दिन्द्र॒ः प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे॑ ॥

पदपाठः

आ॒ध्रेण॑ । चि॒त् । तत् । ऊं॒ इति॑ । एक॑म् । च॒का॒र॒ । सिं॒ह्य॑म् । चि॒त् । पेत्वे॑न । ज॒घा॒न॒ ।
अव॑ । स्र॒क्तीः । वे॒श्या॑ । अ॒वृ॒श्च॒त् । इन्द्रः॑ । प्र । अ॒य॒च्छ॒त् । विश्वा॑ । भोज॑ना । सु॒ऽदासे॑ ॥

सायणभाष्यम्

इन्द्रः तत् तदा आध्रेणचित् दरिद्रेणापि सुदासे एकं मुख्यं दानकर्म चकार कारयामास । सिंह्यं चित् प्रवयाः सिंहः सिंह्यः तमपि पेत्वेन छागेन जघान घातयामास वेश्या वेशी सूची तया स्रक्तीः यूपादेरश्रीनवावृश्चत् अववृक्तवान् वेश्यादेः कृत्यं सूच्यैवाकरोदित्यर्थः तान्ये- तानि त्रीणि कर्माणि असंभावितानीति नाशंकनीयानि इन्द्रस्य महिम्नोधिकत्वात् विश्वा विश्वानि भोजना भोजनानि भोग्यानि धनानि सुदासे राज्ञे प्रायच्छददाच्च ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७