मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् १८

संहिता

शश्व॑न्तो॒ हि शत्र॑वो रार॒धुष्टे॑ भे॒दस्य॑ चि॒च्छर्ध॑तो विन्द॒ रन्धि॑म् ।
मर्ताँ॒ एनः॑ स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिन्द्र ॥

पदपाठः

शश्व॑न्तः । हि । शत्र॑वः । र॒र॒धुः । ते॒ । भे॒दस्य॑ । चि॒त् । शर्ध॑तः । वि॒न्द॒ । रन्धि॑म् ।
मर्ता॑न् । एनः॑ । स्तु॒व॒तः । यः । कृ॒णोति॑ । ति॒ग्मम् । तस्मि॑न् । नि । ज॒हि॒ । वज्र॑म् । इ॒न्द्र॒ ॥

सायणभाष्यम्

हे इन्द्र ते तव शत्रवोरयः शश्वन्तोबहवः ररधुः वशमीयुः चिदपिच शर्धतः उत्सहमानस्य भेदस्य भिनत्ति मर्यादाइति भेदोनास्तिकः तस्य यद्वा भेदोनाम सुदासः शत्रुः कश्चित्तस्येत्यर्थः रन्धिं वशीकरं विन्द लभ योभेदः स्तुवतस्त्वां स्तुवतोमर्तान् मर्त्यान् प्रति एनः पापं कृणोति करोति तस्मिन् भेदे तिग्मं निशितं योद्धारं उत्साहवन्तं तथा च यास्कः-तिग्मं तेजतेरुत्साहकर्मणइति । वज्रं वजति गच्छत्येव शत्रुं न प्रतिहन्यतइति वज्रस्तं वज्रशब्दो वजेरृज्रेन्द्राग्रवज्रविप्रेत्यादिनारन् प्रत्ययान्तो निपातितः । तं जहि वज्रेण भेदं प्रहरेत्यर्थः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७