मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् १९

संहिता

आव॒दिन्द्रं॑ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता॑ता मुषायत् ।
अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या॑नि ॥

पदपाठः

आव॑त् । इन्द्र॑म् । य॒मुना॑ । तृत्स॑वः । च॒ । प्र । अत्र॑ । भे॒दम् । स॒र्वऽता॑ता । मु॒षा॒य॒त् ।
अ॒जासः॑ । च॒ । शिग्र॑वः । यक्ष॑वः । च॒ । ब॒लिम् । शी॒र्षाणि॑ । ज॒भ्रुः॒ । अश्व्या॑नि ॥

सायणभाष्यम्

अत्रास्मिन् सर्वताता सर्वतातौ युद्धे यः इन्द्रोभेदं नास्तिकं भेदनामकं वा सुदासः शत्रुं प्रमुषायत् प्रामुष्णात् अवधीदित्यर्थः तमिन्द्रं यमुना आवत् अतोषयत् तत्तीरवासीजनः सर्वोप्यतोषयदित्यर्थः तृत्सवः तृत्सोः पुरुषाश्चावन् आवदित्येकवचनं बहुवचनान्ततया विपरिणतं सदत्रसंबध्यते । किंचाजासोऽजाः जनपदाः शिग्रवोजनपदाः यक्षवश्च जनपदाः अश्व्यान्यश्वसंबन्धीनि शीर्षाणि शिरांसि युद्धे हतानामश्वानां शिरांसीत्यर्थः बलिमुपहारं तस्मै इन्द्रायोपजभ्रुः उपजह्रः । यद्वा अश्व्यानि शीर्षाणि युद्धे गृहीतान् मुख्यानश्वा- निन्द्रायोपहारं जह्रुरित्यर्थः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७