न त॑ इन्द्र सुम॒तयो॒ न रायः॑ सं॒चक्षे॒ पूर्वा॑ उ॒षसो॒ न नूत्ना॑ः ।
देव॑कं चिन्मान्यमा॒नं ज॑घ॒न्थाव॒ त्मना॑ बृह॒तः शम्ब॑रं भेत् ॥
न । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तयः॑ । न । रायः॑ । स॒म्ऽचक्षे॑ । पूर्वाः॑ । उ॒षसः॑ । न । नूत्नाः॑ ।
देव॑कम् । चि॒त् । मा॒न्य॒मा॒नम् । ज॒घ॒न्थ॒ । अव॑ । त्मना॑ । बृ॒ह॒तः । शम्ब॑रम् । भे॒त् ॥
हे इन्द्र ते तव पूर्वाः पुरातनाः सुमतयः शोभनमतयो रायोधनानि च उषसोन उषसइव न संचक्षे संख्यातुं न शक्याःन नूत्नाः नूतनाश्च सुमतयोरायश्च न संचक्षे । किं च त्वं मान्यमानं मन्यमानस्य पुत्रं देवकं देवकनामानं शत्रुं जघन्थ अवधीः । त्मना स्वयमेव बृहतो महतः शैलात् शंबरं च अवभेत् अवाभैत्सीरिति ॥ २० ॥