मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् २१

संहिता

प्र ये गृ॒हादम॑मदुस्त्वा॒या प॑राश॒रः श॒तया॑तु॒र्वसि॑ष्ठः ।
न ते॑ भो॒जस्य॑ स॒ख्यं मृ॑ष॒न्ताधा॑ सू॒रिभ्य॑ः सु॒दिना॒ व्यु॑च्छान् ॥

पदपाठः

प्र । ये । गृ॒हात् । अम॑मदुः । त्वा॒ऽया । प॒रा॒ऽश॒रः । श॒तऽया॑तुः । वसि॑ष्ठः ।
न । ते॒ । भो॒जस्य॑ । स॒ख्यम् । मृ॒ष॒न्त॒ । अध॑ । सू॒रिऽभ्यः॑ । सु॒ऽदिना॑ । वि । उ॒च्छा॒न् ॥

सायणभाष्यम्

हे इन्द्र पराशरः शतयातुः बहुरक्षाः बहूनि रक्षांसि बाधितुं यं कामयन्ते सशतयातुः बहूनां रक्षसां शातयिता वा शक्तिः वसिष्ठश्च एव- मादयोये ऋषयः त्वाया त्वदिच्छया गृहात् गृहं प्राप्य ल्यब्लोपे द्वितीयार्थे पञ्चमी । यद्वा गृहात् गृहे सप्तम्यर्थे पञ्चमी । प्राममदुः त्वां प्रतुष्टुवुः प्रकर्षेण तर्पितवन्तोवा ते पराशरप्रभृतयः भोजस्य भोजकस्य पालकस्य ते तव सख्यं सख्युः कर्म स्तोत्रं यजनं वा न मृषन्त न विस्मरन्ति मृषमर्षे मर्षोमर्षणं तन्नकुर्वन्तीत्यर्थः यतोन विस्मरंति अध अतो हेतोः सूरीभ्यः सूरीणां स्तोतॄणामेषां अत्र विभक्तिव्यत्ययः सुदिना सुदिनानि व्युच्छान् व्युच्छन्ति निवसन्ति उपगच्छन्तीत्यर्थः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८