मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् २२

संहिता

द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा॑ व॒धूम॑न्ता सु॒दासः॑ ।
अर्ह॑न्नग्ने पैजव॒नस्य॒ दानं॒ होते॑व॒ सद्म॒ पर्ये॑मि॒ रेभ॑न् ॥

पदपाठः

द्वे इति॑ । नप्तुः॑ । दे॒वऽव॑तः । श॒ते इति॑ । गोः । द्वा । रथा॑ । व॒धूऽम॑न्ता । सु॒ऽदासः॑ ।
अर्ह॑न् । अ॒ग्ने॒ । पै॒ज॒ऽव॒नस्य॑ । दान॑म् । होता॑ऽइव । सद्म॑ । परि॑ । ए॒मि॒ । रेभ॑न् ॥

सायणभाष्यम्

देववतोराज्ञोनप्तुः पौत्रस्य पैजवनस्य पिजवनपुत्रस्य सुदासोराज्ञो गोर्गवां द्वेशते वधूमन्ता वधूसंयुक्तौ द्वा द्वौ रथा रथौ च देयं दानं दानभूतान् रेभन् इन्द्रः स्तुवन् अतएव अर्हन् योग्योहं वसिष्ठः हे अग्ने सद्म यज्ञगृहं होतेव वषट् कर्तेव पर्येमि अत्राग्नेः संबोधनं सर्व- देवमुख्यत्वप्रतिपादनार्थं नत् देवतात्वज्ञापनार्थं अतस्तद्देवताकत्वादस्यसूक्तस्य ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८