मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् २३

संहिता

च॒त्वारो॑ मा पैजव॒नस्य॒ दाना॒ः स्मद्दि॑ष्टयः कृश॒निनो॑ निरे॒के ।
ऋ॒ज्रासो॑ मा पृथिवि॒ष्ठाः सु॒दास॑स्तो॒कं तो॒काय॒ श्रव॑से वहन्ति ॥

पदपाठः

च॒त्वारः॑ । मा॒ । पै॒ज॒ऽव॒नस्य॑ । दानाः॑ । स्मत्ऽदि॑ष्टयः । कृ॒श॒निनः॑ । नि॒रे॒के ।
ऋ॒ज्रासः॑ । मा॒ । पृ॒थि॒वि॒ऽस्थाः । सु॒ऽदासः॑ । तो॒कम् । तो॒काय॑ । श्रव॑से । व॒ह॒न्ति॒ ॥

सायणभाष्यम्

पैजवनस्य पिजवनपुत्रस्य सुदासोराज्ञः स्मद्दिष्टयः प्रशस्तातिसर्जनश्रद्धादिदानांगयुक्ताः कृशनिनो हिरण्यालंकारवन्तः निरेके दुर्गतौ सत्यां ऋज्रासो ऋजुगामिनः पृथिविष्ठाः पृथिव्यां सुप्रतिष्ठिताः दानाः देयभूताश्चत्वारोश्वाः तोकं पुत्रवत्पालनीयं मां वसिष्ठं रथे स्थितं तोकाय तोकस्य पुत्रस्य षष्ठ्यर्थे चतुर्थी श्रवसे अन्नाय यशसे वा वहन्ति पुनर्मेतिपूरणः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८