मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् २४

संहिता

यस्य॒ श्रवो॒ रोद॑सी अ॒न्तरु॒र्वी शी॒र्ष्णेशी॑र्ष्णे विब॒भाजा॑ विभ॒क्ता ।
स॒प्तेदिन्द्रं॒ न स्र॒वतो॑ गृणन्ति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके॑ ॥

पदपाठः

यस्य॑ । श्रवः॑ । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । शी॒र्ष्णेऽशी॑र्ष्णे । वि॒ऽब॒भाज॑ । वि॒ऽभ॒क्ता ।
स॒प्त । इत् । इन्द्र॑म् । न । स्र॒वतः॑ । गृ॒ण॒न्ति॒ । नि । यु॒ध्या॒म॒धिम् । अ॒शि॒शा॒त् । अ॒भीके॑ ॥

सायणभाष्यम्

यस्य सुदासः श्रवो यशः उर्वी विस्तीर्णे रोदसी द्यावापृथिव्यौ अन्तं विस्तीर्णयोर्द्यावापृथिर्व्योर्मध्ये वर्ततइत्यर्थः । यश्च सुदाः विभक्ताध- नस्य प्रदाता शीर्ष्णेशीर्ष्णे श्रेष्ठाय श्रेष्ठाय विबभाज धनं प्रददौ तं सुदासं सप्तेत् सप्तैव लोकाः इन्द्रं न इन्द्रमिव गृणन्ति स्तुवन्ति । किं च स्रवतो नद्यः अभीके युद्धे युध्यामधिं युध्यामधिनामकं सपत्नं नि अशिशात् न्यहन् ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८