मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् २५

संहिता

इ॒मं न॑रो मरुतः सश्च॒तानु॒ दिवो॑दासं॒ न पि॒तरं॑ सु॒दासः॑ ।
अ॒वि॒ष्टना॑ पैजव॒नस्य॒ केतं॑ दू॒णाशं॑ क्ष॒त्रम॒जरं॑ दुवो॒यु ॥

पदपाठः

इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । अनु॑ । दिवः॑ऽदासम् । न । पि॒तर॑म् । सु॒ऽदासः॑ ।
अ॒वि॒ष्टन॑ । पै॒ज॒ऽव॒नस्य॑ । केत॑म् । दुः॒ऽनश॑म् । क्ष॒त्रम् । अ॒जर॑म् । दु॒वः॒ऽयु ॥

सायणभाष्यम्

हे नरो नेतारो महतः इमं सुदासं राजानं सुदासो राज्ञः पितरं दिवोदासं न दिवोदासमिव दिवोदासइतिपिजनवनस्यैवनामान्तरं अनु सश्चत अनु सेवध्वम् । किं च दुवोयु परिचरणकामस्य षष्ठ्यालुक् पैजवनस्य पिजवनपुत्रस्य सुदासः केतं मंत्रं गृहं वा अविष्टन रक्षत । अपि चास्य सुदासः क्षत्रं बलं दूणाशं दुर्नशं अविनाशि अजरं अशिथिलं चास्तु ॥ २५ ॥

यस्तिग्मशृंग इत्येकादशर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रान्तं-यस्तिग्मशृंगएकादशेति । आभिप्लविके पञ्चमेहनि एतन्निविद्धानं सूत्रितंच-कयाशुभायस्तिग्मशृंगइति मध्यन्दिनइति । विषुवति निष्केवल्यशस्त्रेप्येतत्सूक्तं सूत्रितं च-यस्तिग्मशृंगोभित्यंमे- षमिति । महाव्रते निष्केवल्येप्येतत्सूक्तं सूत्रितं च-यस्तिग्मशृंगोवृषभोनभीम उग्रोजज्ञेवीर्यायस्वधावानिति । आयुष्कामेष्ट्यां मातेअ- स्यामितीन्द्रस्य त्रातुर्याज्या सूत्रितं च-मातेअस्यांसहसावन्परिष्टौ पाहिनोअग्नेपायुभिरिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८