मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १९, ऋक् १

संहिता

यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वा॑ः ।
यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेदः॑ ॥

पदपाठः

यः । ति॒ग्मऽशृ॑ङ्गः । वृ॒ष॒भः । न । भी॒मः । एकः॑ । कृ॒ष्टीः । च्य॒वय॑ति । प्र । विश्वाः॑ ।
यः । शश्व॑तः । अदा॑शुषः । गय॑स्य । प्र॒ऽय॒न्ता । अ॒सि॒ । सु॒स्वि॑ऽतराय । वेदः॑ ॥

सायणभाष्यम्

यइन्द्रस्तिग्मशृंगः तीक्ष्णशृंगो वृषभोन वृषभइव भीमो भयंकरःसन् एकोसहायएव विश्वाः सर्वान् कृष्टीः शत्रुजनान् स्थानात् प्रच्यावयति यश्चेन्द्रः अदाशुषोऽयजमानस्य शश्वतो बहोर्गयस्य गृहस्य धनस्य वापहर्ता भवतीतिशेषः । हे इन्द्र सत्वं सुस्वितराय अतिशयेन सोमा- भिषवं कुर्वते जनाय वेदो धनं प्रयन्ता प्रदातासि । तृन्नन्तत्वादव षष्ठ्याभावः असीत्यस्याख्यातस्यानुदात्तत्वात् यद्वृत्तयोगाच्चानुदात्त- त्वासंभवात् यद्वृत्तयुक्तमाख्यातांतरमध्याहृत्य योजना कृता ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९