मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १९, ऋक् २

संहिता

त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑माव॒ः शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।
दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ॥

पदपाठः

त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । कुत्स॑म् । आ॒वः॒ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये ।
दास॑म् । यत् । शुष्ण॑म् । कुय॑वम् । नि । अ॒स्मै॒ । अर॑न्धयः । आ॒र्जु॒ने॒याय॑ । शिक्ष॑न् ॥

सायणभाष्यम्

हे इन्द्र त्वं ह त्वं खलु त्यत् तदा तन्वा शरीरेण शुश्रूषमाणः उपचरन् समर्ये मर्यैर्मर्त्यैः योद्धृभिः सहिते युद्धे कुत्समावः अरक्षः कदेत्यत्रा- ह यद्यदा आर्जुनेयाय अर्जुन्याः पुत्रायास्मै कुत्साय शिक्षन् धनं प्रयच्छन् दासं दासनामकमसुरं शुष्णं च कुयवं च न्यरन्धयः नितरां वशमानयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९