मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १९, ऋक् ४

संहिता

त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि ।
त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ॥

पदपाठः

त्वम् । नृऽभिः॑ । नृ॒ऽम॒नः॒ । दे॒वऽवी॑तौ । भूरी॑णि । वृ॒त्रा । ह॒रि॒ऽअ॒श्व॒ । हं॒सि॒ ।
त्वम् । नि । दस्यु॑म् । चुमु॑रिम् । धुनि॑म् । च॒ । अस्वा॑पयः । द॒भीत॑ये । सु॒ऽहन्तु॑ ॥

सायणभाष्यम्

हे नृमणः नृभिर्यज्ञानां नेतृभिः स्तोतृभिः मननीय स्तोतव्येन्द्र नृषु मनोयस्येति बहुव्रीहिर्वा देववीतौ यज्ञे क्रियमाणे सति संग्रामेवा देवा विजिगीषवो यस्मिन् वियन्ति गच्छन्तीति संग्रामोदेववीतिः नृभिर्मरुद्भिः सह भूरीणि बहूनि वृत्रा वृत्राणि शत्रून् हंसि मारितवानसि । किं च हे हर्यश्वेन्द्र त्वं दभीतये दभीतिनामकाय राजर्षये तदर्थमित्यर्थः दस्युं मुमुरिं च धुनिं च सुहन्तु सुहन्तुना वज्रेण नि नितरां अस्वापयः मारितवानसीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९