मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १९, ऋक् ५

संहिता

तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः ।
नि॒वेश॑ने शतत॒मावि॑वेषी॒रह॑ञ्च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥

पदपाठः

तव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुरः॑ । न॒व॒तिम् । च॒ । स॒द्यः ।
नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षीः॒ । अह॑न् । च॒ । वृ॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥

सायणभाष्यम्

हे वज्रहस्त तव च्यौत्नानि बलानि तानि तादृशानि यद्यदा त्वं शंबरस्य नव नवतिंच पुरः सद्योयुगपदेव विदारितवानसीतिशेषः तदा निवेशने निवेशनार्थं शततमा शततमीं पुरं अविवेषीः व्याप्नोः वृत्रं चाहन् उतापिच नमुचिमहन् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९