मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै ।
त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥
मा । ते॒ । अ॒स्याम् । स॒ह॒सा॒ऽव॒न् । परि॑ष्टौ । अ॒घाय॑ । भू॒म॒ । ह॒रि॒ऽवः॒ । प॒रा॒ऽदै ।
त्राय॑स्व । नः॒ । अ॒वृ॒केभिः॑ । वरू॑थैः । तव॑ । प्रि॒यासः॑ । सू॒रिषु॑ । स्या॒म॒ ॥
हे सहसावन् बलवन् हरिवो हरिवन्निन्द्र ते तव अस्यां स्तोत्रेणास्माभिः क्रियमाणायां परिष्टावन्वेषणायां परादै परादानाय अघाय अहन्त्रे वयं माभूम । किं च नोस्मान् अवृकेभिः अबाधैर्वरूथैः वारयन्त्युपद्रवेभ्यः इति वरूथानि रक्षणानि तैस्त्रायस्व पाहि । तव सुरिषु स्तोतृषु मध्ये वयं प्रियासः प्रियाः स्याम भूयास्म ॥ ७ ॥