मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १९, ऋक् ८

संहिता

प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः ।
नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥

पदपाठः

प्रि॒यासः॑ । इत् । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । म॒दे॒म॒ । श॒र॒णे । सखा॑यः ।
नि । तु॒र्वश॑म् । नि । याद्व॑म् । शि॒शी॒हि॒ । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥

सायणभाष्यम्

हे मघवन् धनवन्निन्द्र ते तवाभिष्टावभ्येषणे नरःस्तोत्राणां नेतारो वयं सखायः समानख्यातयः प्रियासः प्रियाश्च सन्तः शरणे इत् गृहे एव मदेम मोदेम । किं च अतिथिग्वाय पूजयातिथीन् गच्छतीत्यतिथिग्वः तस्मै सुदासे दिवोदासाय वास्मदीयाय राज्ञे शंस्यं शंसनीयं सुखं करिष्यन् कुर्वन् तुर्वशं राजानं निशिशीहि वशं कुरु याद्वं च राजानं नि शिशीहीत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०